भकतमरग भकतवजयनतसततरम एक दषटपत
Abstract
स्तुयन्ते इति स्तोत्रम् । स्तोत्रम् इति शव्दस्य अर्थः गीतम् । ईश्वरं प्रति मानवस्य प्रार्थनायै इदं स्तोत्रं पण्डिताः रचितवन्तः । संस्कृतसाहित्ये स्तोत्रस्य अवदानम् अतीव गुरुत्वपूर्णम् अस्ति । मानवः स्वकार्यं निर्विघ्नेन परिसमाप्त्यर्थं विविधस्तोत्रं पठति । स्तोत्रम् इति संस्कृतशब्दः, यस्य अर्थः गीतं, स्तवं वा भवति । इदमेव भारतवर्षस्य धर्मग्रन्थस्य परम्परा इति उच्यते । स्तोत्रम् इति शव्दस्य मूलं भवति स्तू इति, यस्य अर्थः गुणकीर्तनम् । स्तोत्रस्य प्रथमं निदर्शनं वेदः इति उच्यते, विशेषतः सामवेदः इति मन्यते। अस्मिन् विषये अनेकैः विद्वद्भिः कथ्यते स्तोत्रं नाम आध्यात्मिकदार्शनिकसिद्धान्तयुक्तं काव्यम् । भारतवर्षे पुराकालात् बहूनि स्तोत्राणि लक्ष्यन्ते । एतैः स्तोत्रैः संस्कृतसाहित्यस्य ग्रन्थागारविस्तारः, समृद्धः च अभवत् । संस्कृतकाव्ये यानि स्तोत्राणि दृश्यन्ते, तानि उत्तमरुपेण अध्ययनं कृत्वा प्राप्यते यत्, अधिकांशानि स्तोत्राणि कस्मैश्चित्देवविशेषाय उत्सर्गरूपाणि सन्ति । प्रायः स्तोत्राणि ईश्वरमाश्रित्य रच्यन्ते । आधुनिकनयुगे बहवः कवयः विद्यन्ते, ते बहुनि स्तोत्राणि लेखन्ति । पुराकालयावत् भारतवर्षे बहुनि स्तोत्राणि आसन् । एतानि स्तोत्राणि- अखिलान्डेश्वरीस्तोत्रम्, अग्निसहस्यनामस्तोत्रम्, अद्भूतानन्दस्तोत्रम्, अद्वैतानन्दस्तोत्रम्, अन्नपूर्णासहस्रनामस्तोत्रम्, कल्किस्तोत्रम्, नारायणस्तोत्रम्, श्रीकृपाकटाक्षम्स्तोत्रम्, श्रीहरिस्तोत्रम्, कृष्णस्तोत्रम्, विष्णुस्तोत्रम्, शिवतान्डवस्तोत्रम्, गजाननस्तोत्रम्, तुलसिस्तोत्रम् इत्यादयः ।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
