Scinovex
article Open Access

ड. एन-लकषमनरयणभटटपरणत-कदमबन-खणडकवय रमयणसय वरषपरशसपरभव

International Journal of Sanskrit Research · 2024 · Vol. 10(6) · pp. 137–140

Abstract

सुप्राचीनकालाद् आदिकवेः वाल्मीकेः रामायणमाधारीकृत्य बहूनि काव्यानि कविभिः रचितानि। अधुनापि एषा काव्यरचनाधारा प्रचलति। संस्कृतसाहित्ये महाकाव्यवत् खण्डकाव्यमपि स्वमहिम्ना अधिष्ठितम्। डा.एन्-लक्ष्मीनारायणभट्टप्रणीत-खण्डिकाष्टककाव्येषु कादम्बिनी नाम काव्यस्योपरि रामायणस्य वर्षाप्रशंसायाः प्रभावः परिलक्ष्यते। काव्येჽस्मिन् वर्षा प्रवलसमारोहेण आगच्छति। नयनानन्दजनकेषु पदार्थेषु कादम्बिनी हि कवेर्मानसम् आवर्जयति। वर्षाकाले सा श्यामलकान्तिः सती दिनं रविरिव संवृणोति, पर्वतसदृशकाया सर्वत्र जलं च स्यन्दयति। रामस्य मनः इव कवेर्मनः अपि अत्र प्रकृत्याः सह एकीभूतमभवत्। रामायणे यथा घर्माक्लिष्टा पृथिवी शोकसंन्तप्ता सीतेव वाष्पं विमुञ्चति, तथैव कालेჽस्मिन् सर्वे अपि जनाः घर्मात् मुक्तिं पिपासया गाढसन्तोषं च प्राप्नुवन्ति। तस्याः हेतोः सर्वापि भूमिः सस्यश्यामला विभाति। जलस्रावणद्वारा परोपकारविधानात् कादम्बिन्याः जन्मैव धन्यम्। अस्मिन् पत्रे मया कादम्बिनी-खण्डकाव्यस्य वर्षाप्रशंसा तदुपरि च रामायणस्य प्रभावः इति विषयः आलोच्यते।

Citations
0
FWCI
0.00
field-weighted impact
References
0
Percentile
42%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.

ड. एन-लकषमनरयणभटटपरणत-कदमबन-खणडकवय रमयणसय वरषपरशसपरभव · Scinovex