पणनयषटक अनललखत परचनचरय
Abstract
प्राचीनविद्वांसः संस्कृतव्याकरणं युगत्रयेषु विभक्तवन्तः। ते क्रमशः प्रथमतः प्राक् पाणिनियुगः, द्वितीयतः पाणिनिः वा त्रिमुनि युगः, तृतीयतः पाणिनि परवर्तीयुगः इति। महर्षिः पाणिनिः यद्यपि संस्कृतव्याकरणशास्त्रजगति अत्यन्तं तेजस्वी ज्योतिष्कम, परन्तु सः प्रथमः वैयाकरणः नासीत, न तु तस्य विरचितः व्याकरणग्रन्थः प्रथमः संस्कृत व्याकरणग्रन्थः। वस्तुतः व्याकरणशास्त्रज्ञानाम् दीर्घपरम्परां विना पाणिनिसदृशः विलक्षणः व्याकरणज्ञः कदापि न उद्भवति स्म। पाणिनिः स्वस्य अष्टाध्यायीग्रन्थे विंशतिसूत्रेषु दश आचार्यनामानि उल्लेखयति। परन्तु तदतिरिक्तं वहवः पूर्वाचार्याः वैयाकरणाः आसन। तेषां नामानि आचार्यः पाणिनिना नोल्लिखितः, अपि च पाणिनेः पूर्वरूपे प्रसिद्धः आसन्। पूर्वाचार्यस्य अधिकांश कृतयः अस्माभिः सह न सन्ति, किन्तु नाना उदाहरणिनां, नाम उल्लेखानां च कारणात् तेषां विषये कतिपयानि वचनानि वक्तुम् आवश्यकम् अस्ति।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
