Scinovex
article Open Access

ईमनयल कणट महदयसय करमवजञनतमकय मलयममसय - भगवदगतय करमसदधनतन सक तलनतमकधययनम

International Journal of Sanskrit Research · 2024 · Vol. 10(3) · pp. 192–197

Abstract

काण्ट् महोदयस्य कर्मविज्ञानं पाश्चात्यमूल्यमीमांसायाः प्रमुखसिद्धान्तत्त्वेन स्वीक्रीयते। तथैव भगवद्गीतायास्तु भारतीयज्ञानपरम्परायाः प्रमुखस्रोतत्वेन स्वीकृतिः अस्ति। अत्र साक्षात् भगवद्गीतायाः तृतीये, चतुर्थे, पञ्चमे च अध्याये कर्मसिद्धान्तस्य विस्तृतरूपेण प्रतिपादनं दृश्यते। अत्र क्रमेण उभयोः नैतिकमतयोः परिचयं, कर्माचरणप्रक्रियायाः, स्वतन्त्रतायाः सम्प्रत्ययान्, आज्ञापनप्रकारान्, मूल्यपरम्परायाः, पारलौकिकांशानां, कर्म एव सिद्धान्तत्त्वेन परिगणनानि, उत्तमाशयाणां परिचिन्तनानि च क्रमशः निरूपितानि सन्ति। भगवद्गीतायाः मते एतदतिरिच्यापि बहूनि तत्त्वानि सन्ति। काण्ट् महोदयस्य कर्मविज्ञानं सीमितमस्ति इत्यतः तेन प्रतिपादितानाम् अंशानामेव परिगणनम् अनुसन्धाने क्रियते। एतान् अंशान् भगवद्गीतायाः सन्दर्भे समीक्ष्य काः समानताः के भेदाश्च सन्तीति अत्र प्रतिपाद्यते। सर्वत्र स्वीकृतांशेषु समानताः भेदाश्च प्राप्ताः यथा द्वयमपि दर्शनमस्ति एव परन्तु एकं तु पाश्चात्याधुनिकमतमस्ति अन्यत् पारम्परिकादर्शवादत्वेन दृश्यते। कर्मणः उभयत्र प्रसक्तिः वर्तते परन्त्वपि एकत्र शुद्धतर्कनेन मूल्यानां निर्धारणं भवति अन्यत्र तु आदर्शानाम् अनुपालनेन भवति। काण्ट् महोदयः आज्ञापनान् सामाजिकवर्गेषु विभजनं करोति अन्यत्र गीतायाम् आदर्शात्मकवाक्याः प्राक्कल्पितस्वरूपेण आज्ञापनान् विधास्यति। उभयत्र पारलौकिकतत्वानां परिचर्चा लभ्यते परन्तु काण्ट् मते पारलौकिकतत्वानां परिगणनेन सिद्धान्ते मतभेदानां सम्भाव्यता वर्धते। काण्ट् मते कर्मणः सम्प्रत्ययः तर्कनादि संज्ञानानां प्रयोगेण वैज्ञानिकरूपेण तिष्ठति। भगवद्गीतायाः विचाराणि बहुविस्तृतं गहनञ्च अस्ति तथैव एके एव परिक्षेपे गीतायाः परिगणनं कर्तुं न शक्यते। अतः अन्ततो गत्वा सामन्यतया तुलनाद्वारा उभयोः विचारधारयोः मध्ये विद्यमानानाम् समानांशानां विभेदानाञ्च ज्ञानेन बहुविषयकोपागमत्वेन दर्शनानाम् अवगमने साहाय्यता भवत्विति इदमनुसन्धानं विहितमस्ति। अनुसन्धानस्य निष्कर्षे कापि निर्धारकावधारणा न लभ्यते। अत्र तुलनायाः उद्देश्यं विशेषतया दार्शनिकांशानां गहनाध्ययनार्थमेव निर्देशितमस्ति। किमधिकं महत्त्वपूर्णं? किं सत्यम्? किं समीचीनम्? किं पालनीयम्? इत्यादि प्रश्नानां समाधानमत्र न विवक्षितमस्ति। अतः उभयत्र विद्यमानानां विशिष्ठांशानां धनात्मकरूपेण ग्रहणार्थम् अनुसन्धानमिदं कृतमस्ति।

Citations
0
FWCI
0.00
field-weighted impact
References
0
Percentile
16%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.

ईमनयल कणट महदयसय करमवजञनतमकय मलयममसय - भगवदगतय करमसदधनतन सक तलनतमकधययनम · Scinovex