वशषकदरशन यगतततवनशलनम
Abstract
दर्शनं चेतनानां जीवनतत्त्वं विश्लेषयति, आकलयति, व्यवस्थापयति इत्यतः दर्शनमेव आत्मविज्ञानम् इत्यस्मिन् नास्ति अत्युक्तिः। एकमेव विश्वमाधारीकृत्य विश्वानि दर्शनानि अस्तित्वमागतानि। संसारस्योपरि विचारमनपेक्ष्य भारतीयदर्शनेषु मुख्यो भेदः वेदमाश्रित्यैव। वेदस्य प्रमाणस्वीकुर्वतामास्तिकेति संज्ञा, अस्वीकुर्वतान्तु नास्तिकेति। आस्तिकपक्षे तु भेदो नैकः। आस्तिकसम्प्रदायाः मुख्यतः षट्सु विभक्ताः न्यायादिभेदात्। तेष्वपि स्वातन्त्र्यमावहति योगदर्शनम्।षट्सु आस्तिकसंप्रदायेषु योगसंप्रदायस्य विचाराः सांख्यदर्शनस्य विचारेभ्यो नातिभिद्यन्ते। अतः सांख्यदर्शनेन सह योगदर्शनस्य सादृश्यं सुखानुमेयम्। किन्तु सांख्येतरदर्शनेष्वपि योगस्य विचाराः अविरुद्धाः इति कौतुहलस्य विषयः। इतोऽपि विस्मयावहं योगदर्शनस्य सर्वसम्प्रदायग्राह्यत्वम्। द्वैत-अद्वैतनिर्विशेषेन सर्वे दार्शनिकाः योगस्य गुरुत्वं स्वीकुर्वन्त्येव। मनः एव जीवं मोक्षाभिमुखिनं करोति प्रतिपथि गमयति च। अतः सर्वेषु सम्प्रदायेषु मनसः स्थैर्य विधातुं योगस्य तात्त्विकोल्लेखः सुलभ्यः। प्रस्तावितेऽस्मिन् लघुप्रबन्धे वैशेषिकदर्शने योगस्य प्रभावः कीदृशः, कथं च दर्शनेऽस्मिन् योगतत्त्वानि प्रतिपादितानि तद्विषये चिन्ता प्रस्तूयते ।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
