Scinovex
article Open Access

शरअभरजयशभषण गलजजलकय सवरपववचनम

International Journal of Sanskrit Research · 2024 · Vol. 10(3) · pp. 252–255

Abstract

विश्वऽस्मिन् विश्वे प्रायः सर्वमपि वस्तु परिवर्तनशीलं नित्यनूतनं च प्रतिभाति। एवमेव काव्याङ्गनाऽपि विविधशैलीः प्राप्य सहृदयहृदयाह्लादं जनयति। यथा कस्यचिद् नूतनवस्तुनः विशेषतां ज्ञापयितुं तस्य लक्षणं आवश्यकं तथैव एतासां नूतनप्रक्रियाणां शैलीनां अवगाहनार्थं आस्वादार्थं निर्माणार्थं च लक्षणम् अत्यन्तमपेक्षितं वर्तते। अत एव अभिराजराजेन्द्रमिश्राः एतच्छास्त्रसम्बद्धानां सर्वेषां एतासु नवीनशैलीषु रुचिं वर्धापयितुं अभिराजयशोभूषणम् इति आधुनिकसाहित्यलक्षणग्रन्थं निर्माय परम्परागतसाहित्यप्रकारैः सह एतासां नवीनप्रक्रियाणामपि सम्यक्प्रतिपादनम् अकुर्वन्। तेष्वस्मिन् शोधप्रबन्धे गलज्जलिकायाः विवेचनं क्रियते। संस्कृतसाहित्ये गलज्जलिका इति पदं, गजल-वाचकम्। राजेन्द्रमिश्रेणैव प्रथमतया गजलस्य कृते गलज्जलिका इति संज्ञा उपकल्पिता।भारते मुगलशासनकाले अनया साहित्यप्रक्रियया भारतीयसहित्यकाराः प्रभाविताः सञ्जाताः। फलतः फारसीभाषायाः अनन्तरं गजलानि उर्दूभाषायाम् अपि लोकप्रियाः अभवन्। अभिराजराजेन्द्रमिश्रः उल्लिखति यत् संस्कृतगलज्जलिका केवलं फारसीगजलानां संविधानकमात्रमनुसरणं करोति, न तु तेषां साहित्यम् इति। एवम् अभिराजराजेन्द्रमिश्रः गलज्जलिकेत्यादीनां लक्षणम् कृत्वा सहृदयेभ्यः नूतनसाहित्यप्रक्रियानाम् परिचयं अददात्।

Citations
0
FWCI
0.00
field-weighted impact
References
0
Percentile
13%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.