मनवजवन शकषशसतरष वरणतसभषतन परसङगकत
Abstract
सांसारिक-आधिभौतिकादित्रितापैः सन्तापितस्य जन्म-जरा-व्याधिग्रस्थस्य मानवस्य कृते वेदः भवति संसार-सन्तरणे तरणी स्वरुपा । वेदपठनेन जनः पुरुषार्थचतुष्ठयस्य प्राप्तिं करोति । वेदः यदि पुरुषः भवेत्, तर्हि तस्य वेदपुरुषस्य घ्राणं भवति शिक्षा । अतः उच्यते-शिक्षा घ्राणं तु वेदस्य । षड् वेदाङ्गेषु शिक्षा अन्यतमा । ऋग्वेदभाष्यभूमिकायां शिक्षायाः लक्षणविषये एवमुच्यते- स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते, सा शिक्षा । अर्थात् यस्मिन् शास्त्रे अकार-ककारादिवर्णानां, उदात्तादिस्वराणां, ह्रस्वदीर्घादिमात्राणां, स्थानप्रयत्नादिवलानां, माधुर्यादिगुणानां, गीत्यादिदोषाणां, वर्णागमलोपादिसन्तानानां च वर्णना विद्यते, तत् शास्त्रं शिक्षाशास्त्रमित्युच्यते । यतोहि साम्प्रतिकयुगे मानवाः प्रायतः नीतिहीनाः भवन्ति, तस्मात् हेतोः पथभ्रष्टानां मानवानां दिग्दर्शनाय शिक्षाग्रन्थेषु स्थितानां नीतिश्लोकानां प्रासङ्गिकता विषये शोधपत्रेऽस्मिन् मया आलोच्यते ।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
