डणडमजवदवचरयवरचत भकतबभवनटकनसर भकतमरगम
Abstract
भक्तिमार्गे यः जनः ईश्वरं भजति सः व्यक्तिः भक्तः नाम अभिधीयते। भक्तिदर्शनं भक्तिमार्गः इति उच्यते। पुराकाले पन्डिताः आहुः मानवजीवनस्य मूलं लक्षं भवति – धर्मः, अर्थः, कामः, मोक्षः इति चतुरवर्गः प्राप्तिः। श्रीमद्भागवते नवधाभक्तेः पुंखानुपुंखविवरणमुदाहरणञ्च दृश्यते। तथैव नारदभक्तिसुत्रे अपि भक्तेः स्वरुपस्य विषयो वर्णितः। इश्वरे परमप्रेमारुपा एव भक्तिः सा च अमृतारुपा अस्ति। अर्थात् यथा वृक्षस्य पूर्णत्वं गौरवं च फले प्राप्तं भवति तथैव भक्तेः स्वरुपं गौरवं च भगवति परमप्रेमलक्षणे एव अस्ति। शाण्डिल्येन अपि स्वभक्तिसुत्रे परमतत्त्वं प्रति परानुरक्तिरेव भक्तिः इति उक्तम्। तथैवाध्यात्मरामायणे अपि अगस्त्येन-भक्तिरुपामृतं विना स्वप्ने अपि मोक्षः न भवेत् इति कथितम्। नारदपञ्चरात्रे अपि देह-मनो-बुद्ध्यहंकारैः रहित ज्ञानयोगावरणात् मुक्तः शुद्धभावेन सर्वैरिन्द्रियैः इन्द्रियाधिपतेः श्रीहृषीकेशस्य पदानुशीलनं तदेव भक्तिरिति उच्यते। भगवद्गीतायां भगवता कृष्णेन सर्वेषु भूतेषु समः ब्रह्मभुतः भाव एव भक्तिरिति कथित।डिण्डिमजीवदेवाचार्यः अन्यतमः भक्तिकविः अस्ति। तस्य उड़ीसाप्रदेशे जन्मः अभवत्। तस्य परिवारस्य गोत्रः वत्सः इति। तस्य जन्मतिथिविषये को अपि सूचना उपलब्धा नास्ति। डिण्डिमजीवदेवाचार्यः स्वस्य विरचित-ग्रन्थेषु ‘भक्तिमार्गः’ इति विषये सुन्दरं सरलं च चर्चां कृतवान् अस्ति। ईश्वरं प्राप्तुं बहवः उपायाः सन्ति। एतेषु मार्गेषु भक्तिमार्गः उत्तमः इति मन्यते। अनेन भक्तिमार्गेण जनाः सहजतया मुक्तिं प्राप्तुं शक्नुवन्ति। अतः पण्डिताः उच्यन्ते- यतः एतेषु सर्वेषु मार्गेषु उत्तमः ‘भक्तिमार्गः’ इति। अस्माकं शरीरमिदं नश्वरम्, एकदा विनश्यति, किन्तु शरीरान्तरात्मा न नश्यति, आत्मा अविनाशी, अविद्यामूलं अयं शरीरः। अतः अस्य शरीरस्य अज्ञानं दूरीकरणाय ‘विष्णुभक्तिः’ एव एकान्तं प्रयोजनम् अस्ति। अतः अस्य विष्णुभक्तिमार्गेण मानवस्य सहजतया मुक्तिं भविष्यति। अनेन भक्तिमार्गेण प्रत्येकं जनः मायावद्धजगतात् सहजतया मुक्तः भवेत्।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
