Scinovex
article Open Access

वशवशवरवदयभषणपरणतनटकतरय अहसतततवम

International Journal of Sanskrit Research · 2024 · Vol. 10(2) · pp. 168–170

Abstract

आधुनिकसंस्कृतसाहित्यस्य ऊनविंशशतकीयः विशिष्टः कविः नाट्यकारश्च विश्वेश्वरविद्याभूषणः। न केवलं नाट्यकाररूपेण अपि तु सङ्गीतज्ञरूपेणापि अनवद्यः आसीत्। स्वाधीनोत्तरभारतवर्षे संस्कृतचर्चा शिथिलीजाता। साधारणजनैः काठिन्यवशादनङ्गीकारात् काभिश्चित् श्रेणिभिः सा भाषा सीमाबद्धा जाता। तां सीमामुल्लङ्घयितुमचेष्टत श्रीविद्याभूषणमहोदयः। सः रामायण-महाभारत-पुराणैतिहासिकवृत्तान्तान् सरलभाषया माधुर्येण साधारणाय निवेदितवान्। रामायणमहाभारतयोः वृत्तान्तस्वीकारे अन्यतमं कारणं तु स्वाधीनोत्तरभारतवर्षीयजनजीवनस्य प्रतिच्छविप्रदर्शनम्। पारस्परिकहिंसा-द्वेषाक्रान्ताः वङ्गीयाः विपर्यस्ताः एव आसन्। तादृशं कालखण्डमुद्दिश्य एव रामायणकेन्द्रिकं ‘वाल्मीकिसम्बर्धनम्’, महाभारताश्रितम् ‘उत्तरकुरुक्षेत्रम्’, देशप्रेममूलकञ्च ‘प्रबुद्धहिमाचलम्’ इति नाटकत्रयम्। नाटकत्रयाणां मूलवार्ता एव अहिंसा-शान्ति-मैत्रीस्थापनञ्च। नाट्यत्रयेण नाट्यकारः सर्वेषु अहिंसां जागरितवान्। रुधिरक्षये प्रतिहिंसायां नास्ति शान्तिः, त्यागेन तितिक्षया प्रेम्णा मैत्र्या च तत्प्राप्यते इत्येव ज्ञापनं तस्य मुख्यमुद्देश्यमासीत्। तत् ‘वाल्मीकिसम्बर्धनम्’ इति नाटके दस्योः रत्नाकरस्य जीवनपरिवर्तनेन उद्घोषितम्। किञ्च ‘उत्तरकुरुक्षेत्रम्’ इति नाटकेन नाट्यकारः विद्याभूषणमहोदयः प्रदर्शितवान् यत् युधिष्ठिरः कुरुराज्यं जीत्वापि आत्मीयानां परलोकगमनेन विचलितः सन् शान्तिस्थापनाय अचेष्टत। ‘प्रबुद्धहिमाचलम्’ इति नाटके दृश्यते यत् युद्धे विपर्यस्ताः आश्रयहीनाः शोकातुराः युद्धं त्यक्त्वा शान्तिं कामयन्ति। एवं वृत्तान्तवर्णनेन नाट्यकारः बोधयितुमचेष्टत यत् द्विशतवर्षं व्याप्य पराधीनोत्तरं स्वाधीनतां प्राप्य मुक्तानां भारतीयानां देशविभागरोगाक्रान्तानां रुधिरस्नातानां शान्तिं विहान नान्यत् किमपि काम्यमवशिष्टम्। अहिंसा अर्थात् शान्तिरेव मानवतायाः मूलधर्मः। एवम् अहिंसातत्त्वस्य जागरणं प्राचीनभारतीयैतिह्यस्य संस्कृतेः, शासनव्यवस्थायाः, राजनैतिकध्यानधारणायाश्च ज्ञापनमेव नाट्यकारस्य विद्याभूषणमहोदयस्य रचनायाः मूलमुद्देश्यम्। तस्मात् प्रबन्धेऽस्मिन् नाटकत्रमाश्रित्य अहिंसातत्त्वमलोचयितुं चेष्टितम्।

Citations
1
FWCI
1.30
field-weighted impact
References
0
Percentile
85%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.