भसकरयगलधयय अयनशवमरश
Abstract
नाडीवृत्त-क्रान्तिवृत्तयोः स्थानद्वये सम्पातः भवति। प्रथमः सम्पातः सायनमेषादौ भवति। तस्य सम्पातस्य मेषसम्पातः अथवा वसन्तसम्पातः इति नाम। द्वितीयः सम्पातः सायनतुलादौ भवति। तस्य सम्पातस्य तुलासम्पातः अथवा शरत्सम्पातः इति नाम। सृष्ट्यादौ नाडीवृत्त-क्रान्तिवृत्तयोः प्रथमसम्पातस्थानं रेवत्यन्ते आसीत्। अतः क्रान्तिवृत्ते रेवत्यन्तबिन्दुरेव एव निरयणमेषादिरिति व्यवह्रियते। एवञ्च चित्रानक्षत्रस्य मध्यभागे सृष्ट्यादौ नाडीवृत्त-क्रान्तिवृत्तयोः द्वितीयसम्पातः आसीत्। अतः चित्रार्धमेव निरयणतुलादिरिति व्यवह्रियते। परन्तु एते सम्पातस्थाने चले भवतः। स्थिरे न भवतः। अतः वर्तमानकाले मेषसम्पातः यस्मिन् बिन्दौ भवति स एव सायनमेषादिरिति, यत्र च तुलासम्पातः वर्तते स च बिन्दुः सायनतुलादिरिति च व्यवह्रियते। तुलासम्पातस्य गतिः मेषसम्पातस्य गतितुल्या भवति। अतः सायन-निरयणमेषाद्योः सायन-निरयणतुलाद्योर्वा अन्तरमेव अयनांशाः इति निरूपयितुं शक्नुमः। एतेषाम् अयनांशानां ग्रहगणिते महानुपयोगः विद्यते। परन्तु अयनांशविषये खगोलविदां मतैक्यं नास्ति। भिन्नभिन्नखगोलविदः अयनांशानां गतिविषये भिन्नभिन्नमतानि उपस्थापितवन्तः। भास्कराचार्येण सिद्धान्तशिरोमणौ गोलाध्याये गोलबन्धाधिकारे अयनांशविषये केषाञ्चन पूर्वाचार्याणां मतानि उपस्थाप्य अन्ते वेधद्वारा एव अयनांशाः ज्ञातव्याः इति स्पष्टतया प्रतिपादितमस्ति। अस्मिन् शोधपत्त्रे मया भास्कराचार्येण अयनांशविषये यद्विमर्शनं कृतं तत् विस्तरेण प्रतिपादितमस्ति।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
