हरषचरतकवय समजकलयणय धरमपदश
Abstract
मानवजीवनस्य मूललक्ष्यं आत्यन्तिकसुखप्राप्तिर्वर्तते । पुरुषार्थेष्वपि मोक्षः सुखस्वरूपः परमः पुरुषार्थः इति निगद्यते। मानवः आनन्दं प्राप्तुं बहुविधान् उपायान् आविष्करोतिए आगमापायिनं सुखमनुभूय अतृप्तः सन् सुखान्तरमन्विष्य जीवनं यापयति। केवलम् आहारनिद्रादिकं सुखमनुभूयापि स्वात्मोन्नतये स्वप्रज्ञया सर्वदा प्रयत्नशीलो भवति। इदमेव मानवस्य वैशिष्ट्यम् । अत एव ष्धर्मो हि तेषामधिको विशेषष् इति कथयन्ति । अत्र स्वबुद्ध्या मानवः लोककल्याणाय धर्ममाचरति इति सामान्यप्राणिभ्यः अयं विशिनष्टि। यतः धर्माचरणं समेषामपि मानवानाम् आद्यं कर्तव्यम् । यतः श्रीकृष्णः अपि ष्अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्ष् ष्परित्राणाय साधूनाम्ष् इत्यादिभिः वचनैः सर्वान् अस्मान् धर्माचरणे प्रेरयति । एतादृशं प्रेरणावचनं सम्प्राप्य एव संस्कृतकवयः स्वकृतिषु धर्मजागॄतिं प्रसारयन्ति। तत्र कालिदासादयः कवयः मूर्धन्यः भवन्ति। अत्रेदानीं हर्षचरिते ग्रन्थे अपि बाणबट्टः आस्तिकजनेषु धर्मजागृतिं अकरोदिति पश्यामः ।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
