कलदसमत ससकरवमरश
Abstract
मानवजीवनस्य शुद्ध्यर्थं परिष्कारार्थच यत्कर्मविशेषः क्रियते स एव संस्कार इत्युच्यते। समुपसर्गपूर्वकं कृधातौ भावे करणे च द्या् प्रत्यये कृते संस्कारशब्दोऽयं निष्पद्यते। यस्यार्थो भवति भूषणम्, मण्डणम्, सुन्दरम्, अलंकरणम्, गुणाधाननिमित्तकं कर्म, विधिः पद्धतिरित्यादिः। संस्कारेण विकृतीनां परिहारो निर्गुणे सगुणाधानम्, अशुद्धीनां परिष्करणं च भवति। अनेन दोषमार्जनं गुणाधानमपूर्णस्य च पूर्णत्वं प्राप्यते सद्गुणानां संक्रमणच क्रियते। वैदिककालादारभ्य संस्कारणामुदयः संदृश्यते। वेदस्य कर्मकाण्डभागे एव संस्काराण मुल्लेखः प्राप्यते। वेदः संस्काराणां मूलस्रोतो भवति। वैदिकमन्त्राः संस्कारेषु उपयुज्यन्ते। धार्मिककृत्येषु विधिविधानेषु सामान्यतो वैदिकमन्त्राणां विनियोगः दृश्यन्ते।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
