Scinovex
article Open Access

मलतमधवम महवर चरतम उततररमचरत नरपतन

International Journal of Advanced Academic Studies · 2021 · Vol. 3(4) · pp. 258–262

Abstract

भवभूति संस्कृतनाटककर्तृषु कविषु अतीव प्रसिद्धः। बहूना संस्कृतकवीनां यथा तथैव भवभूतिरपि जीवनचरितम् नातीव जायते। अयम् स्वकृतौ महावीरचरिते नाटके स्वस्य विषये किञ्चिदिव विवृणोति यथा-तत्र केचित् तैत्तरीयिणः काश्यपाश्चरणगुरवः पंडितपावनः पञ्चाग्नयो धृतव्रताः सोमपीथिन उदुम्बरनामानो ब्रह्मवादिनः इति। तत्र स्वपरिचयं वदता भवभूतिना भट्टगोपालस्य पौत्रः पवित्रकीर्तेः नीलकण्ठस्य आत्मसम्भवः श्रीकण्ठपदलाञ्छनो जातुकर्णीपुत्रः इति अभिहितम्। भवभूतिः प्रथमं नाम श्रीकण्ठ इति श्री एम् आर तेलङ्गमहाशयः स्वग्रन्थे मालतीमाधवस्य संस्कृतभाषाकथानुवादे लिखितवान्। अयं भवभूतिनामा कविः वेदान्तशास्त्रे, न्यायशास्त्रे, व्याकरणशास्त्रे ब्रह्मविद्यायां च निष्णातः आसीत् इति अस्य कवेः कृतिभि ज्ञायते। एष काश्यपगोत्रजः। आपस्तम्बसूत्रस्य उदुम्बरब्राह्मणशाखायाम् जनिम् अलभत। अस्य माता जातुकर्णी। पिता नीलकण्ठः। पितामहः भट्टगोपाल। जाननिधि भवभूते गुरु। एष दाक्षिणात्य। विदर्भदेशे विद्यमानं पद्मपुरम् अस्य जन्मभूमिः इतिमात्रम् ज्ञातुं शक्यते। विद्वांसः श्रीतेलङ्गमहोदयाः वदन्ति।

Citations
0
FWCI
0.00
field-weighted impact
References
0
Percentile
66%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.

मलतमधवम महवर चरतम उततररमचरत नरपतन · Scinovex