जयतषशसतरसय महततव वजञनकतव च
Abstract
विदितसकलशास्त्राणामष्टादश ऋषीणां महत्तया चपसचर्यया ज्ञानचक्षुषा निर्मितं पवित्रं परमं पुण्य जनकं ज्योतिषशास्त्रं काल विधानशास्त्रं विद्यते। पश्यन्ति यं सूरयः आर्षवचनरसाद् षड़वेदांग मध्ये चक्षुरूपं ज्योतिषशास्त्रं कालावच्छिन्न रूपेण सर्वत्र विराजतें। ज्योतिषा बाधतेतमः तमसो मा ज्योतिर्गमय, असतो मा सद्गमय इत्यार्षवचनत्रयेण परिभाषत्वेनांकलंकरणीयं ज्योतिषशास्त्रम्। किमिदं ज्योतिषं, विषये कथितम्- वेदस्य निर्मलं चक्षुः ज्योतिश्शास्त्रमकल्मषम्। विनैतदखिलं श्रौतं स्मार्त्तंं कर्म न सिध्यति।। श्रौतकर्म जनकता स्मार्त्तकर्म जनकता चास्मिन्नति भावः। विनैतद ज्योतिषशास्त्रं श्रौत स्मार्त्त कर्म न सिध्यति नित्य व्यबहारे प्रयुक्तत्वात्। किमिदं फलम्? यो ज्योतिषं वेत्ति नरः स सम्यक् धर्मार्थकामान्लभते यशश्च। कीदृशं ज्योतिषं ? पुण्यं रहस्यं परमं च तत्वम्। कथं कालविधानशास्त्रोयं विषये भगवता श्री कृष्णेन निगदितम् - अब्यक्तात् व्यक्तयः सर्वा प्रभवन्त्यहरागमे। रात्र्यागमें प्रलीयन्ते तत्रैवाव्यक्त संज्ञके।। कालस्य सृष्ट्यादौतस्य प्रवृत्तिः। प्रलये तदन्तः। तथा च शास्त्रान्तरे- कालः पचति भूतानि सर्वाण्येव सहात्मना, कान्ते स पक्कवस्तेनैव सहाव्यक्ते लयंब्रजेत्।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
