Scinovex
article Open Access

भरवकत परववरतकवन परभवसय परशलनम

International Journal of Advanced Academic Studies · 2022 · Vol. 4(2) · pp. 08–13

Abstract

पूर्वकविभि: सह संवादनिर्माणे कवे: नैसर्गिकी प्रवृत्तिर्भवति। देश-काल-अवस्थारूपभेदत्वेन काव्यफलकमानन्त्यं सम्प्राप्नोति। कविगणा: पुरातनवस्तूनि मनसि निधाय तत् परीक्ष्य चाभिनवरचनासु प्रवर्तन्ते। यथा परिमितवर्णेभ्य: अपरिमितवाङ्मयानां पदसमूहानां रचना सम्भवति। तेभ्य: पदेभ्यश्च असीमितवाङ्मयानां निर्मितिर्जायते। तथैव प्राचीनकाव्यवस्तूनि नूतनकाव्ययोजनासु उपस्थापनान्तरं नूतनानीव परिदृश्यन्ते न तु प्राक्तनवत्। प्रौढविवेचकैरेतादृशा: कवय: आद्रियन्ते न तु परिभूयन्ते। शोधपत्रेऽस्मिन् बहुभि: साक्ष्यै: सह तथ्यमिदं प्रकाशयितुं यतिष्यते मया यत् कश्चनापि कवि: पूर्वकविप्रभावेण अस्पृष्टो न तिष्ठति, तत्रैव किरातार्जुनीयमहाकाव्यस्य रचनाकारो महाकविभारविरपि स्वीकरणीयोऽस्ति। महाकविरयं वाल्मीकि-व्यास-कालिदासादिभ्य: पूर्ववर्तिकविभ्य: प्रभूतं काव्यप्रभावमङ्गीकृतवानस्ति, यस्य विवेचनं स्थाप्यतेऽत्र।

Citations
0
FWCI
0.00
field-weighted impact
References
0
Percentile
36%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.

भरवकत परववरतकवन परभवसय परशलनम · Scinovex