नदबनदपनषद दरशनकतततववमरश
Abstract
ऋग्वेदीयदशोपनिषत्सु योगतत्त्वप्रतिपादका नादबिन्दूपनिषद् अन्यतमास्ति। अस्यामुपनिषदि षट्पञ्चाशत् मन्त्राः सन्ति। अस्यामुपनिषदि ओंकारः साक्षात् ब्रह्मस्वरूपमिति वर्णितमस्ति। उपनिषदः प्रारम्भावस्थायाम् ओंकार एकः पक्षिस्वरूपमिति वर्णितमस्ति। पक्षिस्वरूपस्य ओंकारस्य सर्वेषु अङ्गेषु भूर्लोकादीनां देवानां च निवासस्थानमस्ति। तत्पश्चात् ओंकारस्य साधना तथा ओंकारस्य विभिन्नेषु मात्रासु प्राणवियोगस्य फलस्य वर्णनमस्ति। अनन्तरं योगयुक्तस्थितेः वर्णनाप्रसङ्गे सांख्यदर्शनस्य पञ्चविंशतितत्त्वानामालोचनाः सन्ति। अस्यामुपनिषदि वेदान्तदर्शनस्य प्रारब्धकर्मक्षयविषये सम्यग् मार्गो निर्देशितोऽस्ति। प्रारब्धकर्मणः आलोचनाप्रसङ्गे अध्यासतत्त्वस्य संक्षिप्तालोचनमस्ति। तत्पश्चात् नादानुसन्धानस्य वर्णनमस्ति। नादस्य ज्ञानेनैव साधकः परमपदं लब्धुं शक्नोति, तदर्थं निरन्तरं साधना करणीया।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
