Scinovex
article Open Access

वदकवयकरण सनधसहतसवरपवशलषणम

International Journal of Sanskrit Research · 2023 · Vol. 9(1) · pp. 88–93

Abstract

अखिलसंस्कृतवाङ्मयस्य द्विविधं रूपम् – वैदिकं लौकिकञ्च। लौकिकसंस्कृतस्य व्याकरणत्वेन यथा अष्टाध्यायी प्रसिद्धा तद्वत्वैदिकसंस्कृतस्य व्याकरणत्वेन प्रातिशाख्यानां महत्त्वं दरीदृश्यते। तेषां प्रातिशाख्यग्रन्थानां मुख्योद्देशः पदपाठतः संहिता-पाठस्य निर्माणम्। वस्तुतस्तु सन्धयः संहितायां भवन्ति। सन्धिः शब्दस्यार्थः संयोगः, व्यैयाकरणनये वर्णद्वयस्य मेलनं सन्धानं वेति। वैदिकसंस्कृते पदान्ताद्योर्वर्णयोः सुसन्निकर्षाद् विकृते उतो वा अविकृते सन्धिर्विधीयते। वैदिकव्याकरणे सन्धेः पर्यायरूपेण संहिता (स्त्रीलिङ्गवाचका), सन्धिः (पुंलिङ्गवाचकः), सन्धानमिति (नपुंसकलिङ्गवाचकम्) पदत्रितयमेव समुपलभ्यते। सन्धिनियमानि समाश्रित्य पदपाठात् संहिता-पाठस्य निर्माणं भवति। अथ ‘संहिता पदप्रकृतिः’ इति ऋक्प्रातिशाख्ये सूत्रितम्। पदानां प्रकृतित्वं तत्र निर्धारितम्। संहितापाठपदपाठयोर्मध्ये कस्य प्रकृतित्वं कस्य वा विकृतित्वं स्यादित्यस्मिन् विषये आचार्येषु मतविभिन्नता विद्यते। संहिताया भेदविषयेऽपि विप्रतिपत्तिर्विद्यते प्रातिशाख्यानाम्। आर्षी क्रमश्चेति भेदेन संहिताया द्वैविध्यं भाषितम् ऋक्प्रातिशाखीयभाष्ये। तैत्तिरीयप्रातिशाख्ये संहितायाश्चत्वारः प्रकारा विहिताः। तत्र च पदसंहिताक्षरसंहिता-वर्णसंहिता-अङ्गसंहिताभेदेन संहितायाश्चातुर्व्विध्यं दर्शितम्। भाष्यकार उवटाचार्यः तदीये ऋक्प्रातिशाख्यस्य तथा वाजसनेयिप्रातिशाख्यस्य भाष्ये सन्धेश्चातुर्विध्यमुल्लिखितवान्। ते च यथा - स्वरसन्धिः, व्यञ्जनसन्धिः, स्वर-व्यञ्जनसन्धिः, व्यञ्जन-स्वरसन्धिश्च।

Citations
0
FWCI
0.00
field-weighted impact
References
2
Percentile
2%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.