आरयनरयय गषठववद
Abstract
विश्वसाहित्येषु प्रथमा देवस्तुतिप्रधाना आर्यैः विरचिता ऋग्वेदसंहिता । तत्र इन्द्रानलार्कवरुणसोमादीनां देवानां स्तुतिः क्रियते ऋषिभिः। तेषामेव देवानामुपासना सम्पादिता धनलाभाय अनार्यनिषूदनाय च। अनार्यान् पराभूय तेषां सर्वस्वलुण्ठनं हि आर्याणां मनोरथमासीत्। अतः आर्यानार्यविरोधस्तु सर्वथासीद् धनकेन्द्रिकः। वेदव्रतविरोधिनः अनार्याः ऋग्वेदसंहितायां ‘दस्युः’, ‘दासो’ वेति नामान्तरेणाभिधीयते। अनार्याः किल अन्यव्रता: इत्यपि जल्पिताः मन्त्रान्तरेषु। ऋग्वेदस्य पञ्चममण्डले मन्त्रविशेषे ‘अब्रह्मता’ इति पदान्तरेणापि प्रकटितानार्याणां देवहीनता। ऋग्वेदे न केवलम् आर्यानार्ययोः गोष्टीविवादो विद्यते, आर्यगोष्ठीप्रधानैः सह दुष्टदासानां मिथः चण्डविवादोऽपि वर्ण्यते मन्त्रै: । ऋग्वेदे आर्यवर्गनायकप्रमुखानामुल्लेखो दृश्यते। अनार्यगोष्ठीप्रधानैः सह तेषां चिरविरोधः आसीत् । ऋग्वेदस्य सूक्तेषु बहूनामेव दस्यूनां दुष्टानां वृत्तान्तो दृश्यते। सर्वे ते सर्वदा शक्रदेवस्य तथा तस्य भक्तानाञ्च चिरविरोधिन: आसन्। आर्यप्रधानेषु सर्वे इन्द्रस्य भक्रप्रवरा: सोमाभिषवपरायणाः आसन्। तेषां परिपन्थिनः सर्वे क्रुरा: पिशाचतुल्याः दस्यवः इन्द्रेणैव विनष्टाः आहवेषु। आर्यप्रधानै: सह अनार्यै: संग्रामे अनुकम्पाशीलः करुणार्द्र: शक्रदेवः आर्यनायकस्य सुसहायकः आसीत्।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
