Scinovex
article Open Access

शवतशवतरपनषद तरकदरशनपरकतपशतततववमरश

International Journal of Sanskrit Research · 2021 · Vol. 7(4) · pp. 33–40

Abstract

विश्वसाहित्ये संस्कृतसाहित्यस्य स्थानमतीव महत्वपूर्णमित्याधुनिकाः गवेषकाः प्रवदन्ति। अस्मिन् विश्वे भारतीयसाहित्यस्य तथा संस्कृतसाहित्यस्य भारतीयसंस्कृतेश्च प्रतिफलनमपि दृश्यते। भारतीयसंस्कृतेः परम्परायाश्चादिभूतसाहित्यं खलु वैदिकसाहित्यम्। वैदिकसाहित्यमिदं ऋग्वेदादिक्रमेण विभागचतुष्टयसम्पन्नम्। प्रतिवेदेषु संहिताब्राह्मणादिक्रमेण विभागचतुष्टयोऽप्यस्ति। एतेषु संहितादिविभागचतुष्टयेषु वेदान्तसाहित्यं तथोपनिषत्साहित्यमन्यतमम्। विविधासूपनिषत्सु श्वेताश्वतरोपनिषदपि प्रख्याता। अस्यां कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषदि दार्शनिकवचनसमृद्धं विविधमतं प्रतिफलितम्। तेषु दार्शनिकतत्त्वेषु सांख्य-योग-वेदान्त-शैवतत्त्वादि तत्र परिलक्षितम्। शैवदर्शनस्य सम्प्रदायेषु काश्मीरीयशैवदर्शनं तथा त्रिक्दर्शनमतीव प्रसिद्धम्। अस्मिन् काश्मीरीयशैवदर्शने त्रिक्दर्शने वा त्रिक्तत्त्वं तथा पति-पशु-पाशतत्त्वालोचितम्। पाशतत्त्वमिदं श्वेताश्वतरोपनिषदि शक्तिः प्रकृतिः मायेत्यादिना नाम्नोल्लिखितम्। तेन साकं पतितत्त्वमपि तत्र प्रतिफलितमित्येतान् विषयान्नवलम्ब्य प्रस्तुतोऽयं शोधसारः।

Citations
0
FWCI
0.00
field-weighted impact
References
3
Percentile
62%
vs. same field & year
Citation Network

How this paper connects to the literature. Drag to explore, click any node to open that paper.