भरतयन वकषचनतनम
Abstract
संप्रति विज्ञानस्य युगेऽस्मिन् परिवेशदूषणं तथा पर्यावरणस्य असन्तुलितावस्था जीवसमुदायानाम् आतङ्कस्य विषयः । विकशितदेशानां महत्वाकांक्षाः विकाशशीलानाञ्च प्रतियोगिताः पर्यावरणस्य कीदृशीं क्षतिं साधयन्तीति विगतवर्षकतिपयेषु घटितानां प्राकृतिकदुर्योगानाम् अनुध्यानेन स्पष्टम्। संप्रति विपर्ययादस्मात् परित्रातुं वृक्षाः एव समर्था इति उपायान्तराभावात् भूखण्डस्थाः देशाः सम्मिलिताः वृक्षाणां रक्षणार्थं चेष्टिताः दृश्यन्ते। अस्मिन् प्रसङ्गे पुराकालात् भारतीयानां प्रयासः उल्लेखयोग्यः। भारतवर्षस्य प्राचीनसंस्कृतेः अनुशीलनेन ज्ञायते भारतीयानां नित्यकरणीयकर्मसु अपि पर्यावरणस्य रक्षणभावना निहिता। संस्कृतग्रन्थेषु वेदपुराणादिप्राचीनशास्त्रेषु बहवः मन्त्राः श्लोकाश्च वृक्षाणां रक्षणार्थमभिप्रेताः प्राप्यन्ते। वृक्षाणां क्षतिसाधनेन दण्डविधानमपि आसीत्। यथोच्यते आचार्यमनुना – फलदानान्तु वृक्षाणां छेदने जप्यमृक्शतम्। गुल्मवल्लीलतानाञ्च पुष्पितानाञ्च वीरुधाम्।। भारतवर्षस्य सांस्कृतिक-अनुष्ठानानि भारतीयानां दैनिकाचरणानि च वृक्षाणां रक्षणे कथं सम्पृक्तानि आसन्निति विस्तृतविषयम् अधिकृत्य संक्षेपेण आलोचयिष्यते प्रस्ताविते लघुप्रबन्धेऽस्मिन्।
How this paper connects to the literature. Drag to explore, click any node to open that paper.
